Jagrayam Foundation

देवपूजनम

श्रीमन्न महागणपति नमः

जय श्री चिन्तामण इच्छामन सिद्धिविनायक गणपति देव

पूजा विधि :
    1. शुद्धिकरण: पूजा स्थान साफ करें, स्वयं स्नान कर पवित्र हों।
    2. आसन: स्वयं के बैठने के लिए लाल या पीले रंग के स्वच्छ आसन का प्रयोग करें।
    3. दीप प्रज्वलन: पूजा के प्रारंभ में घी का दीपक जलाएं।
    4. भगवान का आवाहन व स्नान: भगवान की मूर्ति/तस्वीर को नमन करें, जल छिड़क कर (भाव रूप में) स्नान कराएं
  • धूप व दीप: अगरबत्ती/धूप जलाकर भगवान को दिखाएं।

33 कोटि देवता
त्रिदेव,
नवदुर्गा
एकादश रुद्र
नवग्रह,
दश दिक्पाल,
षोडश लोकपाल
सप्तमातृका,
दश महाविद्या
बारह यम
आठ वसु
चौदह मनु
सप्त ऋषि
घृतमातृका
दश अवतार
चौबीस अवतार
आदि

पवित्रीकरण

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा ।यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचि

ॐ अमृतोपस्तरणमसि स्वाहा ।।1।।

ॐ अमृतापिधानमसि स्वाहा ।।2।।

ॐ सत्यं यशः श्रीर्मयि श्रीः श्रयतां स्वाहा ।।3।।

शिखा बन्धन

चिद्रूपिणि महामाये दिव्यतेजः समन्विते ।तिष्ठ देवि शिखा मध्ये तेजोवृद्धिं कुरुष्व मे ।।

प्राणायाम मन्त्र

ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् । ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वः ॐ ।। स्वरोम

न्यासः

ॐ वाङ्म आस्येऽस्तु । से मुख को ।ॐ नसोर्मेप्राणोऽस्तु । से नासिका के दोनों छिद्रों को ।ॐ अक्ष्णोर्मे चक्षुरस्तु । से दोनों नेत्रों को ।ॐ कर्णयोर्मे चक्षुरस्तु । से दोनों कानों को ।ॐ वाह्वोर्मे बलमस्तु । से दोनों बाहों को ।ॐ ऊर्वोर्मेऽओजोस्तु । से दोनों जंघाओं को ।ॐ अरिष्टानिमेऽङ्गानि मनूस्तन्वा में सह सन्तु ।से सब शरीर पर जल छिड़कें ।

पृथ्वी पूजन

मंत्र  पढ़कर पृथ्वी पर जल, अक्षत, पुष्प छोड़ें—

ॐ पृथ्वि ! त्वया धृता लोका, देवि ! त्वं विष्णुना धृता ।। त्वं च धारय मां देवि ! पवित्रं कुरु चासनम ॥ -सं०प्र०
ॐ ब्रह्मा मुरारी त्रिपुरान्तकारी भानु शशि भूमिसुतो बुधश्च, गुरुश्च शुक्र शनि राहु केतव: सर्वे ग्रह शांति करा: भवन्तु।
सूर्य मंत्र:
तांत्रिक: ॐ ह्रां ह्रीं हौं सः सूर्याय नमः।
वैदिक: ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च।
चंद्र मंत्र:
तांत्रिक: ॐ श्रां श्रीं श्रौं सः चन्द्रमसे नमः।
वैदिक: ॐ इमं देवा असपत्नं सुवध्यं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय।
मंगल मंत्र:
तांत्रिक: ॐ क्रां क्रीं क्रौं सः भौमाय नमः।
वैदिक: ॐ अग्निमूर्धा दिव: ककुत्पति: पृथिव्या अयम्।
बुध मंत्र:
तांत्रिक: ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः।
वैदिक: ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते सं सृजेधामयं च।
गुरु मंत्र:
तांत्रिक: ॐ ह्रीं क्लीं ह्रीं बृहस्पतये नमः।
वैदिक: ॐ बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु।
शुक्र मंत्र:
तांत्रिक: ॐ श्रीं क्लीं शुक्राय नमः।
वैदिक: ॐ अन्नात्परिस्त्रुतो रसं ब्रह्मणा व्यपित्क्षत्रं पय: सोमं प्रजापति।
शनि मंत्र:
तांत्रिक: ॐ शं शनैश्चराय नमः।
वैदिक: ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये।
राहु मंत्र:
तांत्रिक: ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः।
वैदिक: ॐ कया नश्चित्र आ भुवदूती सदावृध: सखा।
केतु मंत्र:
तांत्रिक: ॐ स्रां श्रीं स्रौं सः केतवे नमः।
वैदिक: ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे।

ॐ कालभैरवाय नमः
ॐ ह्रीं बटुकाय आपद उद्धारनाय कुरू कुरू बटुकाय ह्रीं ॐ फट
ॐ भ्रां कालभैरवाय फट्
ॐ क्रीं क्रीं कालभैरवाय फट
तीक्ष्ण दंष्ट्र महाकाय
कल्पान्त दहनोपम
भैरवाय नमस्तुभ्यम्
अनुज्ञां दातुमर्हसि

स्वस्ति वाचनम् *

हाथ में जल, पुष्प, अक्षत लेकर स्वस्ति वाचन बोला जाय। यह शुभ कार्यों की सफलता, शान्ति, सार्थकता एवं मंगलमय पूर्ति के समय कल्याण कारक मन्त्र है।ॐ गणानांत्वा गणपति हवामहे प्रियाणांत्वा प्रियपति हवामहे निधीनांत्वा निधिपति हवामहे वसोमम । आहमजानिगर्भधमात्वमजासिगर्भधम् ।।1।।

ॐ स्वस्तिनऽइन्द्रोवृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः । स्वस्तिनस्ताक्र्ष्योऽअतरिष्ट नेमिः स्वस्तिनो वृहस्पतिर्दधातु ।।2।।

ॐ पयः पृथिव्यां पयऽओषधीषु पयोदिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ।।3।।

ॐ विष्णोः राटमसि विष्णोः श्नप्त्रेस्थोः विष्णोः स्पूरसि विष्णोर्ध्रुंवोऽसि । वैष्णवमसि विष्णवेत्वा ।।4।।

ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽदित्या देवता मरूतो देवता विश्वदेवा देवता वृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ।।5।।

ॐ द्यौः शान्ति अन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्ति । वनस्पतयः शान्तिविश्वेदेवाः शान्तिर्व्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि ।।6।।

ॐ विश्वानिदेव सवितर्दुरितानि परासुव । यद्भद्रं तन्न आसुव ।।7।।

ॐ शान्ति ! शान्ति !! शान्ति !!!सर्वारिष्ट शान्तिर्भवतु ।।

संकल्प

दाहिने हाथ में जल, अक्षत, पुष्प और द्रव्य लेकर संकल्प करे।

ॐ विष्णुर्विष्णुर्विष्णुः ॐ स्वस्ति श्रीमन्मुकन्दसच्चिदानन्दस्याज्ञया प्रवर्तमानस्याद्य ब्रह्मणो द्वितीये परार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे द्वात्रिंशत्कल्पानां मध्ये अष्टमे श्रीश्वेतबाराहकल्पे स्वायम्भुवादिमन्वतराणां मध्ये सप्तमे वैवस्वतमन्वन्तरे कृत-त्रोता-द्वापर- कलिसंज्ञानां चतुर्युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे तथा पञ्चाशत्कोटियोजनविस्तीर्ण-भूमण्डलान्तर्गतसप्तद्वीपमध्यवर्तिनि जम्बूद्वीपे तत्रापि श्रीगङ्गादिसरिद्भिः पाविते परम-पवित्रे भारतवर्षे आर्यावर्तान्तर्गतकाशी-कुरुक्षेत्र-पुष्कर-प्रयागादि-नाना-तीर्थयुक्त कर्मभूमौ मध्यरेखाया मध्ये अमुक दिग्भागे अमुकक्षेत्रे ब्रह्मावर्तादमुकदिग्भागा- वस्थितेऽमुकजनपदे तज्जनपदान्तर्गते अमुकग्रामे श्रीगङ्गायमुनयोरमुकदिग्भागे श्रीनर्मदाया अमुकप्रदेशे देवब्राह्माणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्य-समयतोऽमुक संख्यापरिमिते प्रवर्तमानवत्सरे प्रभवादिषष्ठिसम्वत्सराणां मध्ये अमुकनाम सम्वत्सरे, अमुकायने, अमुकगोले, अमुकऋतौ, अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुकवासरे, यथांशकलग्नमुहूर्तनक्षत्रायोगकरणान्वित.अमुकराशिस्थिते श्रीसूर्ये, अमुकराशिस्थिते चन्द्रे, अमुकराशिस्थे देवगुरौ, शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु, सत्सु एवं ग्रहगुणविशिष्टेऽस्मिन्शुभक्षणे अमुकगोत्रोऽमुकशर्म्मा वर्मा-गुप्त-दास सपत्नीकोऽहं श्रीअमुकदेवताप्रीत्यर्थम् अमुककामनया ब्राह्मणद्वारा कृतस्यामुकमन्त्रपुरश्चरणस्य सङ्गतासिद्धîर्थ- ममुकसंख्यया परिमितजपदशांश-होम-तद्दशांशतर्पण-तद्दशांश-ब्राह्मण-भोजन रूपं कर्म करिष्ये।

अथवा –

ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं सकुटुम्बस्य सपरिवारस्य द्विपदचतुष्पदसहितस्य सर्वारिष्टनिरसनार्थं सर्वदा शुभफलप्राप्तिमनोभि- लषितसिद्धिपूर्वकम् अमुकदेवताप्रीत्यर्थं होमकर्माहं करिष्ये।

अक्षत सहित जल भूमि पर छोड़ें।

पुनः जल आदि लेकर-

तदङ्गत्वेन निर्विध्नतासिद्धîर्थं श्रीगणपत्यादिपूजनम् आचार्यादिवरणञ्च करिष्ये।

देव पूजनम्

*गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुरेव महेश्वरः ।गुरुरेव परब्रह्म तस्मै श्री गुरुवेनमः ।।1।।

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।तत्पदं दर्शितं येन तस्मै श्री गुरुवेनमः ।।2।।

ॐ आयातु वरदे देवि अक्षरे ब्रह्मवादिनी ।गायत्रिच्छन्दसां माता ब्रह्मयोनिर्नमोस्तुते ।।3।।

अभीप्सितार्थसिद्ध्यर्थ पूजितो यः सुरासुरैः ।सर्वविघ्नहरस्तस्मैगणाधिपतये नमः ।।4।।

सर्वमंगलमांगल्ये शिवेसर्वार्थसाधिके ।शरण्ये त्र्यंबिके गौरि नारायणि नमोस्तुते ।।5।।

शुक्लाम्बरधरंदेवं शशिवर्ण चतुर्भुजम् ।प्रसन्नवदनंध्यायेत्सर्व विघ्नोपशान्तये ।।6।।

सर्वदा सर्वकार्येषु नास्ति तेषाममगंलम् ।येषां हृदिस्थोभगवान्मंगलायतनो हरिः ।।7।।

विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् ।सरस्वतीं प्रणम्यादौ शान्तिकार्यार्थसिद्धये ।।8।।

मंगलं भगवान् विष्णुमंगलं गरुणाध्वजः ।मंगलं पुण्डरीकाक्षोमंगलायतनो हरिः ।।9।।

त्वं वैं चतुर्मुखो ब्रह्मा सत्यलोकपितामह ।आगच्छ मण्डले चास्मिन्मम सर्वार्थसिद्धये ।।10।।

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् ।।लक्ष्मीकान्तं कमलनयनं योगभिर्ध्यानगम्यं ।वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।11।।

वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणम् ।वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् ।।वन्दे सूर्यशशंकवह्विनयनम् वन्दे मुकुन्दप्रियम् ।वन्दे भक्त जनाश्रयं च वरदं वन्दे शिवं शंकरम् ।।12।।

ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टि वर्धनम् ।उर्वारुकमि बन्धानान्मृत्योर्मुक्षीय माऽमृतात् ।।13।।

दुर्ग ! स्मृता हरसि भीतिमशेष जन्तोःस्वस्थैःस्मृता मतिमतीव शुभां ददासि ।दारिद्र्यदुःखभयहारिणि का त्वदन्यासर्वोपकारकरणाय सदार्द्रचित्ता ।।14।।

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् ।वीणापुस्तकधारिणीममयदां जाड्यान्धकारापहाम् ।।हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् ।वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।15।

ॐ आर्द्रा पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् ।सूर्यांहिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।16।।

ॐ कालिकां तु कलातीतां कल्याणहृदयां शिवाम् ।कल्याणजननीं नित्यं कल्याणीं पूजयाम्यहम् ।।17।।

विष्णुपादाब्जसम्भूते गंगे त्रिपथगामिनि ।धर्मद्रवेति विख्याते पापं में हर जाह्नवि ।।18।।

पुष्कराद्यानि तीर्थानि गंगाद्याः सरितसस्तथा ।आगच्छन्तु पवित्राणि पूजाकाले सदामम ।।19।।

ब्रह्मामुरारीस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च ।गुरुश्च शुक्रः शनिराहुकेतवः सर्वेग्रहाः शांतिकरा भवन्तु ।।।20।

ॐ गौरी पद्मा शची मेधा सावित्री विजयाजया ।देवसेना स्वधा स्वाहा मातरोलोक मातरः ।।21।।

हृष्टिः पुष्टिस्तथा तुष्टिरात्मनः कुलदेवताः ।गणेशेनाधिकाह्येता वृद्धौ पूज्याश्चषोडश ।।22।।

कीर्तिर्लक्ष्मीर्धृतिर्मधा सिद्धिः प्रज्ञासरस्वती ।मांगल्येषु प्रपूज्याश्च सप्तैता दिव्यमातरः ।।23।।

नागपृष्ठसमारूढ़ं शूलहस्तं महाबलम् ।पातालनायकं देवं वास्तुदेवं नमाम्यहम् ।।24।।

ॐ क्षेत्रपालान्नमस्यामि सर्वारिष्टनिवारकान् ।अस्य यागस्यसिध्यर्थं पूजयाराधितान् मया ।।25।।

ॐ सिद्धि बुद्धि सहित श्रीमन्महागणाधिपतयेनमः ।ॐ लक्ष्मी नारायणाभ्यान्नमः ।ॐ उमामहेश्वराभ्यान्नमः ।ॐ वाणीहिरण्यगर्भाभ्यान्नमः ।ॐ शचीपुरन्दराभ्यान्नमः ।ॐ मातापितृचरणकमलेभ्यो नमः ।ॐ कुलदेवताभ्यो नमः ।ॐ इष्टदेवताभ्यो नमः ।ॐ ग्रामदेवताभ्यो नमः ।ॐ स्थानदेवताभ्यो नमः ।ॐ वास्तुदेवताभ्यो नमः ।ॐ सर्वेभ्यो देवेभ्यो नमः ।ॐ सर्वेभ्यो प्राणेभ्यो नमः ।ॐ सर्वेभ्यो तीर्थेभ्यो नमः ।।

 

क्षमा प्रार्थना

आबाहनं न जानामि नैव जानामि पूजनम् ।विसर्जनं न जानामि क्षमस्व परमेश्वर ।।1।।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।यत्पूजितं मयादेव परिपूर्ण तदस्तुमे ।।2।।

यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।तत्सव क्षम्यतो देव प्रसीद परमेश्वर ।।3।।

यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ।।4।।

प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषुयत् ।स्मरणादेव तद्विष्णोः सम्पूर्णः स्यादिति श्रुतिः ।।5।।

साष्टांग नमस्कार

नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ।।

नमो ब्रह्मणयदेवाय गौब्राह्मणहिताय च ।जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ।

वसुदेव सुतं देवं कंस चाणूर मर्दनम् ।देवकी परमानन्दं कृष्णं बन्दे जगद्गुरुम् ।।

 

शुभ कामना

स्वस्ति प्रजाभ्य परिपालयन्तां न्यायेन मार्गेण महीं महीशाः ।गोब्राह्मणेभ्यो शुभमस्तु नित्यं, लोकासमता सुखिनोभवन्तु ।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखमाप्नुयात् ।।2।।

अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।निर्धनाः सधनाः सन्तु जीवन्तु शरदां शतम् ।।3।।

श्रद्धां मेधा यशः प्रज्ञां विद्यां पुष्टि श्रियं बलम् ।तेज आयुष्यमारोग्यं देहि मे हव्यवाहन ।।4।।

शांति पाठ

ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्ति रापः शान्तिरोषधयः शान्ति वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि ।।

ॐ शान्तिः शान्तिः शान्तिः । सर्वारिष्टा सुशान्तिर्भवतु ।।

समर्पणम्:

उत्तराणी में जल लेकर, निम्नलिखित दो मंत्रों का उच्चारण करते हुए, जल को पृथ्वी को अर्पित करें।

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्-कृतं जपम्।

सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयी स्थिरा॥

गुह्यतिगुह्यगोप्त त्वं गृहाणास्मत्-कृतं जपम्|

सिद्धिर्भवतु मे देवा त्वत्प्रसादान्मयी स्थिरा |

 

सनातन उद्घोष

धर्म की जय हो: सदाचारी और सत्य के मार्ग की विजय हो।

अधर्म का नाश हो: बुराई, अन्याय और अनैतिकता का अंत हो।

प्राणियों में सद्भावना हो: सभी जीवों के प्रति प्रेम, करुणा और भाईचारा हो।

विश्व का कल्याण हो: मानवता और पूरे संसार का भला हो।

Leave a comment

Your email address will not be published. Required fields are marked *