श्रीमन्न महागणपति नमः
जय श्री चिन्तामण इच्छामन सिद्धिविनायक गणपति देव
ॐ श्री परमात्मने नमः।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्ये माक्षर्भि यजत्राः ।
स्थिरै रङ्गै स्तुष्टु वां सस्तनूभिः ।
व्यशेम देव हितं यदायुः ॥
(1) पवित्र करण
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।
(2) आचमनम्
ॐ अमृतोपस्तरणमसि स्वाहा ।।1।।
ॐ अमृतापिधानमसि स्वाहा ।।2।।
ॐ सत्यं यशः श्रीर्मयि श्रीः श्रयतां स्वाहा ।।3।।
(3)शिखा बन्धन
चिद्रूपिणि महामाये दिव्यतेजः समन्विते ।
तिष्ठ देवि शिखा मध्ये तेजोवृद्धिं कुरुष्व मे ।।
(4) चंदन मंत्र
चन्दनस्य मह त्पुण्यं पवित्रं पापनाशनम् ।
आपदाम हरते नित्यं लक्ष्मी तिष्ठति सर्वदा ।।
(5) प्राणायाम मन्त्र
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् । ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवः स्वः ॐ ।। स्वरोम्
(6) न्यासः
ॐ वाङ्म आस्येऽस्तु । से मुख को ।
ॐ नसोर्मेप्राणोऽस्तु । से नासिका के दोनों छिद्रों को ।
ॐ अक्ष्णोर्मे चक्षुरस्तु । से दोनों नेत्रों को ।;
ॐ कर्णयोर्मे चक्षुरस्तु । से दोनों कानों को ।
ॐ वाह्वोर्मे बलमस्तु । से दोनों बाहों को ।
ॐ ऊर्वोर्मेऽओजोस्तु । से दोनों जंघाओं को ।
ॐ अरिष्टानिमेऽङ्गानि मनूस्तन्वा में सह सन्तु ।
(7) पृथ्वी नवग्रह पूजन
ॐ पृथ्वि ! त्वया धृता लोका, देवि ! त्वं विष्णुना धृता ।। त्वं च धारय मां देवि ! पवित्रं कुरु चासनम ॥ -सं०प्र०
(8) नवग्रह पूजन
ॐ ब्रह्मा मुरारी त्रिपुरान्तकारी भानु शशि भूमिसुतो बुधश्च, गुरुश्च शुक्र शनि राहु केतव: सर्वे ग्रह शांति करा: भवन्तु।
ॐ सूर्य देव सहस्रांशो तेजो राशे जगत्पते ।
अनुकम्पय मां भक्त्या गृहाणार्ध्य दिवाकर !!
सूर्य मंत्र:
तांत्रिक: ॐ ह्रां ह्रीं हौं सः सूर्याय नमः।
वैदिक: ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च।
चंद्र मंत्र:
तांत्रिक: ॐ श्रां श्रीं श्रौं सः चन्द्रमसे नमः।
वैदिक: ॐ इमं देवा असपत्नं सुवध्यं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय।
मंगल मंत्र:
तांत्रिक: ॐ क्रां क्रीं क्रौं सः भौमाय नमः।
वैदिक: ॐ अग्निमूर्धा दिव: ककुत्पति: पृथिव्या अयम्।
बुध मंत्र:
तांत्रिक: ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः।
वैदिक: ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते सं सृजेधामयं च।
गुरु मंत्र:
तांत्रिक: ॐ ह्रीं क्लीं ह्रीं बृहस्पतये नमः।
वैदिक: ॐ बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु।
शुक्र मंत्र:
तांत्रिक: ॐ श्रीं क्लीं शुक्राय नमः।
वैदिक: ॐ अन्नात्परिस्त्रुतो रसं ब्रह्मणा व्यपित्क्षत्रं पय: सोमं प्रजापति।
शनि मंत्र:
तांत्रिक: ॐ शं शनैश्चराय नमः।
वैदिक: ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये।
राहु मंत्र:
तांत्रिक: ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः।
वैदिक: ॐ कया नश्चित्र आ भुवदूती सदावृध: सखा।
केतु मंत्र:
तांत्रिक: ॐ स्रां श्रीं स्रौं सः केतवे नमः।
वैदिक: ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे।
(9) कलश पूजनम्
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले तत्रस्थितो ब्रह्मा मध्ये मातृगणाः स्मृता ।।1।।
कुक्षौ तु सागरासर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोथ यजुर्वेदो सामवेदोह्थर्वणः ।।2।।
अंगैश्च सहिता सर्वे कलशन्तु समाश्रितः ।
अत्र गायत्री सावित्री शान्तिः पुष्टि करी सदा ।।3।।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ।
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।।4।।
आदित्या वसवो रुद्रा विश्वेदेवाः स पैतृकाः ।
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।।5।।
त्वत्प्रसादादिमां यज्ञं कर्तुमीहे जलोद्भवः ।
सान्निध्यं कुरुमे देव ! प्रसन्नो भव सर्वदा ।।6।।
(10)संकल्प
विष्णुर्विष्णुर्विष्णुः ॐ स्वस्ति श्रीमन्मुकन्दसच्चिदानन्दस्याज्ञया प्रवर्तमानस्याद्य ब्रह्मणो द्वितीये परार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे द्वात्रिंशत्कल्पानां मध्ये अष्टमे श्रीश्वेतबाराहकल्पे स्वायम्भुवादिमन्वतराणां मध्ये सप्तमे वैवस्वतमन्वन्तरे कृत-त्रोता-द्वापर- कलिसंज्ञानां चतुर्युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे तथा पञ्चाशत्कोटियोजनविस्तीर्ण-भूमण्डलान्तर्गतसप्तद्वीपमध्यवर्तिनि जम्बूद्वीपे तत्रापि श्रीगङ्गादिसरिद्भिः पाविते परम-पवित्रे भारतवर्षे आर्यावर्तान्तर्गतकाशी-कुरुक्षेत्र-पुष्कर-प्रयागादि-नाना-तीर्थयुक्त कर्मभूमौ मध्यरेखाया मध्ये अमुक दिग्भागे अमुकक्षेत्रे ब्रह्मावर्तादमुकदिग्भागा- वस्थितेऽमुकजनपदे तज्जनपदान्तर्गते अमुकग्रामे श्रीगङ्गायमुनयोरमुकदिग्भागे श्रीनर्मदाया अमुकप्रदेशे देवब्राह्माणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्य-समयतोऽमुक संख्यापरिमिते प्रवर्तमानवत्सरे प्रभवादिषष्ठिसम्वत्सराणां मध्ये अमुकनाम सम्वत्सरे, अमुकायने, अमुकगोले, अमुकऋतौ, अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुकवासरे, यथांशकलग्नमुहूर्तनक्षत्रायोगकरणान्वित.अमुकराशिस्थिते श्रीसूर्ये, अमुकराशिस्थिते चन्द्रे, अमुकराशिस्थे देवगुरौ, शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु, सत्सु एवं ग्रहगुणविशिष्टेऽस्मिन्शुभक्षणे अमुकगोत्रोऽमुकशर्म्मा वर्मा-गुप्त-दास सपत्नीकोऽहं श्रीअमुकदेवताप्रीत्यर्थम् अमुककामनया ब्राह्मणद्वारा कृतस्यामुकमन्त्रपुरश्चरणस्य सङ्गतासिद्धîर्थ- ममुकसंख्यया परिमितजपदशांश-होम-तद्दशांशतर्पण-तद्दशांश-ब्राह्मण-भोजन रूपं कर्म करिष्ये।
अथवा –
ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं सकुटुम्बस्य सपरिवारस्य द्विपदचतुष्पदसहितस्य सर्वारिष्टनिरसनार्थं सर्वदा शुभफलप्राप्तिमनोभि- लषितसिद्धिपूर्वकम् अमुकदेवताप्रीत्यर्थं होमकर्माहं करिष्ये।
अक्षत सहित जल भूमि पर छोड़ें।
पुनः जल आदि लेकर-
तदङ्गत्वेन निर्विध्नतासिद्धîर्थं श्रीगणपत्यादिपूजनम् आचार्यादिवरणञ्च करिष्ये।
(11) स्वस्ति वाचनम्
ॐ गणानांत्वा गणपति हवामहे
प्रियाणांत्वा प्रियपति हवामहे
निधीनांत्वा निधिपति हवामहे
वसोमम । आहमजानि गर्भधमात्वम जासि गर्भधम् ।।1।।
ॐ स्वस्तिनऽइन्द्रोवृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः । स्वस्तिनस्ताक्र्ष्योऽअतरिष्ट नेमिः स्वस्तिनो वृहस्पतिर्दधातु ।।2।।
ॐ पयः पृथिव्यां पयऽओषधीषु पयोदिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ।।3।।
ॐ विष्णोः रराटमसि विष्णोः श्नप्त्रेस्थोः विष्णोः स्पूरसि विष्णो र्ध्रुंवोऽसि । वैष्णवमसि विष्णवेत्वा ।।4।।
ॐ अग्निर्देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽदित्या देवता मरूतो देवता विश्वदेवा देवता वृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ।।5।।
ॐ द्यौः शान्ति अन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्ति । वनस्पतयः शान्तिविश्वेदेवाः शान्तिर्व्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि ।।6।।
ॐ विश्वानिदेव सवितर्दुरितानि परासुव ।
यद्भद्रं तन्न आसुव ।।7।।
ॐ शान्ति ! शान्ति !! शान्ति !!!
सर्वारिष्ट सुशान्तिर्भवतु ।।
(12) देव पूजनम्
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुरेव महेश्वरः ।
गुरुरेव परब्रह्म तस्मै श्री गुरुवेनमः ।।1।।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरुवेनमः ।।2।।
ॐ आयातु वरदे देवि अक्षरे ब्रह्मवादिनी ।
गायत्रिच्छन्दसां माता ब्रह्मयोनिर्नमोस्तुते ।।3।।
स्तुता मया वरदा वेदमाता प्रचोदयन्तां पावमानी द्विजानाम्।
आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम्।
मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥ (अथर्ववेद 19.71.1)
अभीप्सितार्थसिद्ध्यर्थ पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।।4।।
सर्वमंगलमांगल्ये शिवेसर्वार्थसाधिके ।
शरण्ये त्र्यंबिके गौरि नारायणि नमोस्तुते ।।5।।
शुक्लाम्बरधरंदेवं शशिवर्ण चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये ।।6।।
सर्वदा सर्वकार्येषु नास्ति तेषाममगंलम् ।
येषां हृदिस्थोभगवान्मंगलायतनो हरिः ।।7।।
विनायकं गुरुं भानुं ब्रह्माविष्णुमहेश्वरान् ।
सरस्वतीं प्रणम्यादौ शान्तिकार्यार्थसिद्धये ।।8।।
मंगलं भगवान् विष्णुमंगलं गरुडध्वजः ।
मंगलं पुण्डरीकाक्षो मंगलायतनो हरिः ।।9।।
त्वं वैं चतुर्मुखो ब्रह्मा सत्यलोकपितामह ।
आगच्छ मण्डले चास्मिन्मम सर्वार्थसिद्धये ।।10।।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् ।।
लक्ष्मीकान्तं कमलनयनं योगभिर्ध्यानगम्यं ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।।11।।
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणम् ।
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनाम्पतिम् ।।
वन्दे सूर्यशशांक वह्विनयनम् वन्दे मुकुन्दप्रियम् ।
वन्दे भक्त जनाश्रयं च वरदं वन्दे शिवं शंकरम् ।।12।।
ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टि वर्धनम् ।
उर्वारुकमि बन्धानान्मृत्योर्मुक्षीय माऽमृतात् ।।13।।
दुर्गे ! स्मृता हरसि भीतिमशेष जन्तोः
स्वस्थैः स्मृता मतिम तीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ।।14।।
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम् ।
वीणापुस्तकधारिणीममयदां जाड्यान्धकारापहाम् ।।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् ।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।25।
ॐ आर्द्रा पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् ।
सूर्यांहिरण्मयीं लक्ष्मीं जातवेदो म आवहे ।।16।।
ॐ कालिकां तु कलातीतां कल्याणहृदयां शिवाम् ।
कल्याणजननीं नित्यं कल्याणीं पूजयाम्यहम् ।।17।।
विष्णुपादाब्जसम्भूते गंगे त्रिपथगामिनि ।
धर्मद्रवेति विख्याते पापं में हर जाह्नवि ।।18।।
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितसस्तथा ।
आगच्छन्तु पवित्राणि पूजाकाले सदामम ।।19।।
ब्रह्मामुरारीस्त्रिपुरान्तकारी भानुः शशी भूमि सुतो बुधश्च ।
गुरुश्च शुक्रः शनिराहुकेतवः सर्वेग्रहाः शांतिकरा भवन्तु ।।।20।
ॐ गौरी पद्मा शची मेधा सावित्री विजयाजया ।
देवसेना स्वधा स्वाहा मातरोलोक मातरः ।।21।।
हृष्टिः पुष्टि स्तथा तुष्टि रात्मनः कुलदेवताः ।
गणेशे नाधिका ह्येता वृद्धौ पूज्याश्च षोडश ।।22।।
कीर्तिर्लक्ष्मीर्धृतिर्मधा सिद्धिः प्रज्ञासरस्वती ।
मांगल्येषु प्रपूज्याश्च सप्तैता दिव्यमातरः ।।23।।
नागपृष्ठसमारूढ़ं शूलहस्तं महाबलम् ।
पातालनायकं देवं वास्तुदेवं नमाम्यहम् ।।24।।
ॐ क्षेत्रपालान्नमस्यामि सर्वारिष्टनिवारकान् ।
अस्य यागस्यसिध्यर्थं पूजयाराधितान् मया ।।25।।
(13) भैरव पूजन
ॐ कालभैरवाय नमः
ॐ ह्रीं बटुकाय आपद उद्धारनाय कुरू कुरू बटुकाय ह्रीं ॐ फट
ॐ भ्रां कालभैरवाय फट्
ॐ क्रीं क्रीं कालभैरवाय फट
तीक्ष्ण दंष्ट्र महाकाय
कल्पान्त दहनोपम
भैरवाय नमस्तुभ्यम्
अनुज्ञां दातुमर्हसि
(14)ॐ सिद्धि बुद्धि सहित श्रीमन्महागणाधिपतयेनमः ।
ॐ लक्ष्मी नारायणाभ्यान्नमः ।
ॐ उमामहेश्वराभ्यान्नमः ।
ॐ वाणीहिरण्यगर्भाभ्यान्नमः ।
ॐ शचीपुरन्दराभ्यान्नमः ।
ॐ मातापितृचरणकमलेभ्यो नमः ।
ॐ कुलदेवताभ्यो नमः ।
ॐ इष्टदेवताभ्यो नमः ।
ॐ ग्रामदेवताभ्यो नमः ।
ॐ स्थानदेवताभ्यो नमः ।
ॐ वास्तुदेवताभ्यो नमः ।
ॐ सर्वेभ्यो देवेभ्यो नमः ।
ॐ सर्वेभ्यो प्राणेभ्यो नमः ।
ॐ सर्वेभ्यो तीर्थेभ्यो नमः ।
ॐ एतत्कर्मप्रधान श्री गायत्री देव्यै नमः ।
ॐ पुण्यैपुण्याहं दीर्घमायुरस्तु ।
नमः सर्व हितार्थाय जगदाधार हेतवे ।
साष्टांगोऽयं प्रणामस्ते प्रयत्नेन मयाकृतः ।।
नमोस्त्वनन्ताय सहस्रमूर्तये । सहस्रपादाक्षि शिरोरुवाहवे ।
सहस्र नाम्नेपुरुषाय शाश्वते सहस्रकोटि युगधारिणेनमः ।।
(15) मंत्र :—
ॐ गं गणपतये नमः”
ॐ एकदंताय विद्महे, वक्रतुण्डाय धीमहि, तन्नो दंती प्रचोदयात्॥”
ॐ ह्रीं श्रीं मूलं हूं विष्णवे नमो भगवते वासुदेवाय !!
ॐ नमः शिवाय
श्री शिवाय नमस्तुभ्यम
ॐ ह्रां ह्रीं ह्रौं हूं जूं स: नमः शिवाय !!
आकाशे तारका लिंगम ,
पाताले हात्केश्वारह
मृत्युरर्लोके महाकाले ,
लिंगम त्रियम नमोस्तुते !!
अवन्तिकायाम विहिव्तारम
मुक्ति प्रदायनाय च सज्जनाम,
अकाल मृत्यु परिरक्शनाय,
वन्दे महाकाल महा सुरेश्वरम !!
मृत्युंजय महाकाल
त्राहिमाम शरणागतः ,
जन्म मृत्यु जरा व्याधि
पीड़ितो कर्म बंधनाह !!
ॐ हौं जूं स: ॐ भुर्भव: स्व: ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
ऊर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॐ भुव: भू: स्व: ॐ स: जूं हौं ॐ !!
तत पुरुषाय विध्महे
महादेवाय धीमहि
तन्नो रुद्रः प्रचोदयात् !!
ॐ नमः शम्भवाय च मयोभवाय च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च !!
वन्दे देव उमापतिम सुरगुरुं
वन्दे जगत् कारणं,
वन्दे पन्नग भूषणं मृग्धरम
वन्दे पशूनाम्पतिम !
वन्दे सूर्य शशांक वहिनयनम
वन्दे मुकुंदप्रियम,
वन्दे भक्त जनाश्रयम च वरदम
वन्दे शिवम् शंकरं !!
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा !!
ॐ ह्लीं बगलामुखी सर्व दुष्टानाम वाचं मुखं पदम् स्तम्भय जिह्वाम कीलय-कीलय बुद्धिम विनाशाय ह्लीं ह्लरीम फ़्ट स्वाहा !!
ॐ श्रीं ह्रीं क्लीं ऐं सौ: ॐ ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं सौ: ऐं क्लीं ह्रीं श्रीं फ़्ट स्वाहा !!
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् स्वाहा। इदंगायत्र्यै इदं न मम !!
ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं स्फ्रें ख्फ्रें ह्स्ख्फ्रें ह्सौं हं हनुमते रुद्रात्मकायं हुं फट् !!
ॐ तीक्ष्णदंष्ट्र महाकाय कल्पान्त दहनो पहम।
भैरवाय नमस्तुभ्यं अनुज्ञां दातु महर्षि !!
(16) पूर्णाहुति
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।
ॐ पूर्णादर्विपरापत सुपूर्णा पुनरापत ।
वस्नेव विक्रीणा वहाऽइषमूर्ज शतक्रतो स्वाहा ।।
ॐ सर्वं वै पूर्ण ग्वंग स्वाहा ।
(17) निराजनम आरती
कर्पूरगौरम करुणावतारम
संसारसारं भुजगेंद्रहारम !
सदा वसंतम हृदया रविन्दे
भवम भवानी सहितं नमामि !!
यं ब्रह्म वेदान्त विदो वदन्ति,
परम प्रधानं पुरुषस्तथान्ये ।
विश्वोद्गते कारणमीश्वरंवा,
तस्मैं नमो विघ्नविनाशनाय ।।
यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः ।
वेदैः सांङ्गपदक्रमोपनिषदैर्गावन्ति यं सामगाः ।।
ध्यानावस्थित तद्गतेन मनसा पश्यन्ति यं योगिनो ।
यस्यान्तं न विदुः सुरासुरगणाः देवाय तस्मै नमः ।
(18) साष्टाङ्ग नमस्कार
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ।।
नमो ब्रह्मणयदेवाय गौब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ।
वसुदेव सुतं देवं कंस चाणूर मर्दनम् ।
देवकी परमानन्दं कृष्णं बन्दे जगद्गुरुम् ।।
(19) शुभ कामना
स्वस्ति प्रजाभ्य परिपालयन्तां न्यायेन मार्गेण महीं महीशाः ।
गोब्राह्मणेभ्यो शुभमस्तु नित्यं, लोकासमता सुखिनोभवन्तु ।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखमाप्नुयात् ।।2।।
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।
निर्धनाः सधनाः सन्तु जीवन्तु शरदां शतम् ।।3।।
श्रद्धां मेधा यशः प्रज्ञां विद्यां पुष्टि श्रियं बलम् ।
तेज आयुष्यमारोग्यं देहि मे हव्यवाहन ।।4।।
(20) शांति अभिसिंचनम्
ॐ द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्ति रापः शान्तिरोषधयः शान्ति वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि ।।ॐ शान्तिः शान्तिः शान्तिः । सर्वारिष्टा सुशान्तिर्भवतु ।।
सर्वेषाम् स्वस्तिर भवतु ।
सर्वेषाम् शान्तिर् भवतु ।
सर्वेषाम् पूर्णं भवतु ॥
(21) क्षमा प्रार्थना
आबाहनं न जानामि नैव जानामि पूजनम् ।
विसर्जनं न जानामि क्षमस्व परमेश्वर ।।1।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मयादेव परिपूर्ण तदस्तुमे ।।2।।
यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् ।
तत्सव क्षम्यतो देव प्रसीद परमेश्वर ।।3।।
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्योवन्दे तमच्युतम् ।।4।।
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषुयत् ।
स्मरणादेव तद्विष्णोः सम्पूर्णः स्यादिति श्रुतिः ।।5।।
(22) घोष
असतो मा सद्गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ॥
“धर्म की जय हो,
अधर्म का नाश हो,
प्राणियों में सद्भावना हो,
विश्व का कल्याण हो”
जय श्री महाकाल
🚩🕉️🔱🪔🪷